________________
१६८ • मङ्गलकलशकथानकम् कुत्राप्यगाधसरसीं निकषैव चक्रा
नाराममासददयं जनकेन साकम् ।।९९।। त्रिभिर्विशेषकम् ।। भास्वत्करप्रसरवारणमाऽऽदधानं
छायाभरेण विततोद्गतभूरुहाणाम् । सान्द्रीभवत्किसलयच्छदनाञ्चितानां
स श्रेष्ठिसूरुपवनं प्रविवेश तच्च ॥१००॥ तं बालकं समवलोक्य समाव्रजन्तं
पीयूषवर्षमिव लोचनयोः सृजन्तम् । पप्रच्छ मालिकवरो धनदत्तमिभ्यं ___ कोऽयं नवोऽत्र भवता समुपैति चेति ॥१०१।। सूनुर्ममायमतिजातकुतूहल: स
न्नाराममागमदवेक्षितुमेव तेऽद्य । इभ्यप्रभूदितमिदं विनिशम्य सम्यग्
जम्बीरदाडिमफलानि ददौ स तस्मै ॥१०२।। रम्भाफलानि विपुलानि मनोरमाणि
सल्लाङ्गलीतनुमहाफललुम्बियुजि । आरामिको व्यतरदाशु निवारितोऽपि
त्यागोद्धतेन किल तज्जनकेन मेति ।।१०३।। प्रोत्फुल्लचम्पकसुमानि सकेतकानि
जाम्बूनदोपपदजातिसुमानि लात्वा । व्यावर्तत स्वभवनं प्रति वाणिजेशः
प्रीतिं परां कलयता तनयेन सार्द्धम् ।।१०४।।
toxag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org