SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १६७ कुत्रापि पाककलकोलफलानि चिन्वन् । उद्यद्दिनाधिपतिमण्डलसन्निभानि गोपाङ्गनाः क्वचन लोचनगोचरेऽपि कुर्वन् पयोदधिघटी: शिरसाऽऽदधानाः ||९४|| दूर्वाप्रवालशकलानि सुकोमलानि भास्वत्तुरङ्गमतनूरुहसोदराणि । मत्तं पुरीपरिसरे परितश्चरन्तं कुत्रापि तर्णककुलं समवेक्षमाणः ||९५|| छायां भजन् क्वचिदपि श्रमघर्मतोयैराप्लावितः समुदयत्सुकुमारभाव: । अभ्रंलिहावनिरुहावलिलक्ष्यमाणां दूरादवैक्षत वनीमवनः श्रियां सः ||९६|| चतुर्भिः कुलकम् ।। पुंस्कोकिलान् क्वचन दर्शयता रसाल शाखाप्रदेशमवलम्ब्य सुखं निविष्टान् । पीयूषपारणविधिं श्रवसां जनाना मातन्वतः सुमधुरस्वरगीतभङ्ग्या ||९७|| व्याकोशकिंशुकसुमायतचारुचञ्चन् लीलाचलच्चरणचङ्क्रमणैकचुञ्चन् । क्षीरोदसागरतरङ्गसदृक्षपक्षान् पद्माङ्करादनपरान् क्वचनापि हंसान् ॥९८॥ चक्रीं प्रियां विशलताशकलार्पणेन प्रेमप्रकाशमनुरञ्जयतो यथेच्छम् । Poxa2 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy