________________
१६६ . मङ्गलकलशकथानकम् आराममुद्गतफलाभ्युदयाभिराम
मामोदमाशु जनयन्तमुपागतानाम् ।।८८।। पित्राभ्युदीरितमिदं विनिशम्य पुत्रः
प्रोवाच वाचमतिमात्रविनीतधुर्यः । आज्ञाप्यते यदि भवद्भिरनुग्रहेणा
रामं तमप्यहमुपैमि समं भवद्भिः ।।८९।। अत्यन्तवल्लभतया न निवर्तितुं तं ।
पुष्यच्छिरीषसुकुमारतया न नेतुम् । शक्तोऽभवत्स भुवनाद्भुतभागधेयः
कूलङ्कषारयमिवायनवर्तिशैलः ॥१०॥ तस्याग्रहं शिशुतयाऽविनिवार्यमार्य
श्चित्ते विचार्य सममेव समाप तं तम् । जाम्बूनदाभरणभूषितपाणिकण्ठं
मञ्जुस्वरावजितकोकिलकण्ठनालम् ।।९१।। साक्षात् षडानन इवैष महेश्वरेण
श्रीमाञ्जयन्त इव जम्भनिषूदनेन । पद्मालयाप्रणयिनेव सुमेषुवीरो
गच्छन् समं स जनकेन विराजते स्म ॥९२।। पृच्छन् क्वचिद्विटपिनां विटपानतानां
नामानि लोकविदितान्यपि न श्रुतानि । वल्लीदलानि विपुलानि सविस्मयः सन्
गृह्णन् क्वचिच्छिशुतयाऽतिचलाचलत्वात् ।।१३।।
SyaQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org