________________
श्रीमुनिभद्रसूरिविरचितम् • १६५ द्रव्याणि यानि स धनी विचिकाय षष्ठी___जागर्यिकामहमवाप्य सुतस्य तस्य । नो तानि कश्चिदपि च व्ययसात्करोति
पाणिग्रहेऽपि तनयस्य महद्धिकोऽपि ॥८३।। जाते महोत्सवभरे सकलेऽपि लोके
सम्मानिते वसनचीनदुकूलदानैः । स्वप्नानुसारि तनयस्य ततान नाम __ श्रेष्ठी महेन दशमेऽहनि सम्मदेन ॥८४॥ ज्योतिर्विदोऽपि विनिवार्य सुवासिनीश्च
नैमित्तिकानपि कलाकुशलानशेषान् । सन्मङ्गलश्रुति च मङ्गलकुम्भ इत्या
ब्रह्माण्डमाकलितशारदचन्द्रकीतिः ॥८५॥ युग्मम् ।। धात्रीभिरुज्ज्वलरसोदयसृत्वरीभि
विश्वम्भरारुह इवाचलसारिणीभिः । संवर्द्धमानसुभगः परिपाल्यमानो
जज्ञे जनप्रमददोऽष्टसमः क्रमात्सः ॥८६।। दृष्ट्वा प्रयान्तमपरेधुरुदारचित्तं
तातं वनीं प्रति स मङ्गलकुम्भ एतत् । व्याचष्ट मङ्गलमुखो ननु तातपादाः !
सिद्धयै प्रयात मयि सत्यपि किं स्वयं वा ? ||८७|| स्मित्वा जगाद जनक: प्रियपुत्र ! याम्या
नेतुं सुमानि जगदीश्वरपूजनार्थम् ।
Pisce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org