SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १६३ वाचं प्रियस्य परमार्थत एव सत्यां मत्वा समुत्थितवती फलसंयुतानि । सा बिभ्रती प्रियतमप्रतिपादितानि पुष्पाणि वासवसतिं स्ववशा विवेश ॥७२।। यान् दोहदान् स्वहृदये बिभराम्बभूव सा श्रेष्ठिराजदयिता कलिता गुणौघैः । पृच्छत्पुरन्ध्रिवदनेरितवाक्यभङ्गया तान् वल्लभः सपदि पूरयति स्म तस्याः ॥७३।। प्रासूत सा तनयमद्भुतरूपसम्पत् संतर्जितामरकुमारकुमाररूपम् । विद्योतयन्तमभितस्तदरिष्टदीप तेजांसि केन्द्रपतितोच्चशुभग्रहेषु ।।७४।। दासीजनैर्दुतमुपेत्य सुतप्रभूत्या श्रेष्ठीप्रहृष्टहृदयैरभिवद्धितोऽयम् । देयं न किञ्चन विवेद न चाप्यदेयं ___नादेयमेव परिपूर्णमनाः प्रमोदैः ॥७५।। पुत्रा भवन्ति भवने बहवोऽपि यस्य ___जाते सुते वितनुतेऽपि महामहं सः । प्रापोपयाचितशतैस्तनयं तथा यः किं नोत्सवं स तनुतां तनुताण्डवेन ? ॥७६।। विज्ञप्य विज्ञतमताऽवमताग्र्यजीवं सर्वंसहाधिपतिमेष महोपदाभिः । Dise Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy