________________
१६२ • मङ्गलकलशकथानकम्
इत्युद्धतस्वरमुदीर्य कृताञ्जलिः स साधर्मिकप्रणयतः प्रणति चकार ||६६ ||
पत्न्यै न्यवेदयत शासनदेवतायाः
पश्चात्स वाक्यमथ निर्भरतोषितायाः । प्रागेव वक्त्रकमलं प्रभवत्प्रसादमानन्दतुन्दिलमिदं प्रकटीचकार ॥६७॥ गर्भं बभार धनदत्तधनेशभार्या
सा तत्प्रभृत्यपि भृता सुकृतप्रभावैः । स्वप्ने च पूर्णकलसं सलिलैः प्रपूर्ण
माम्रच्छदैरपिहितं कलयाम्बभूव ॥६८॥ स्वप्नोपलब्धिसमनन्तरमेव गन्ध
पुष्पाणि पाणिकमले विनिवेश्य धन्या । प्राणप्रियं मृदुवचोभिरुदारबुद्धि
रुत्थाप्य सा प्रवदति स्म यथार्थमेवम् ॥६९॥ स्वप्ने निरैक्षिषि विशेषविदां वराद्य कल्याणपूर्णकलसं जलसम्भृतं च । कीदृक् फलं मम भविष्यति चास्य नाथ ! तत्त्वं निवेदय मदग्रत एव तत् त्वम् ||७०|| एतत् तदुक्तमवधार्य विचार्य बुद्ध्या
प्राह स्म विस्मितमनाः प्रमनाः स चाढ्यः । जानेऽस्मि पूर्णकलसप्रविलोकनेन
सूनुस्तवेन्दुमुखि ! संभविताचिरेण ॥७१॥
9529
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org