SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५८ • मङ्गलकलशकथानकम् यश्चन्दनेन न च चन्द्रमरीचिचक्रैः शक्यो निवर्त्तयितुमेव न गाङ्गवाभिः ॥४४॥ श्रुत्वेति तत्सहचरी वचनं तदस्य निःश्वस्य गाढमवदद्वदतां वरा सा । चिन्तामपास्य कुरु नाथ ! विशिष्य पुण्यं यत् स्यात् तदेव सकलाभिमतार्थसिद्धयै ।।४५।। प्रासादमारचय तीर्थकृतां नवानि बिम्बानि तत्र विनिवेशय भावतस्त्वम् । पूजां विधापय सुवर्णविचित्रजाति___मुख्यैः सुमैर्भगवतां घनसारसारैः ।।४६।। जैनागमं सुभग ! लेखय पुस्तकेषु दत्त्वा वसून्यगणितानि च लेखकेभ्यः । पक्वान्नखण्डघृतपायसमुख्यभाज्यैः सार्मिकानविरतं प्रिय ! भोजय त्वम् ।।४७|| साधून् महाव्रतधरान् प्रतिलाभयस्व वस्त्रान्नपानवरमोदकखादिमाद्यैः । साध्वीश्च निर्मितविधापितकल्पितादि__दोषान् विधूय शुचिमानसवृत्तिसक्तः ॥४८।। धर्मं समाचरत एवमचिन्तचिन्ता रत्नं चिरत्नकृतदुष्कृतभङ्गहेतुम् । भावी तवापि तनयस्तदिहापि रम्यं नो चेदमुत्र सुकृताचरणं सुखाय ।।४९।। svaa For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy