________________
श्रीमुनिभद्रसूरिविरचितम् • १५७ ताम्यन्ति केऽत्र जलधावपि पोतभङ्गे ___ पूजा यतो भवति सा जलदेवतायाः । तीर्थङ्करस्य हि वरं प्रतिमाप्रतिष्ठा
कालेऽर्हणाप्यभिमता जलदेवतायाः ॥३९।। कश्चिन्न रोगमधिगम्य नरो गतार्थः
सन्तापमाश्रयति विश्रुतबुद्धिधारः । यस्मादुपार्जितमवश्यमवेदयित्वा
ज्ञानाश्रयैरपि जिनैर्न च कर्म शक्यम् ।।४०।। दुःस्वप्नमापतति भाविविशेषयोगात् ___ पुंसां सुषुप्तिसमये नियतेनियोगात् । दु:खं न तत्र विमृशन्ति विवेकभाज__स्तन्वन्ति शान्तिकविधि खलु तस्य शान्त्यै ॥४१।। भूपोऽपमानमपि सुन्दरि ! यत् तनोति
दोषः समाश्रयति तत्र निदानभावम् । नास्थायि शैशवभरस्य विपर्ययेऽपि
दोषाश्रितस्य सविधेऽपि मया कदाचित् ॥४२।। नास्पृक्षदन्यवनितामपि मामकीनं
किञ्चिन्मनस्विनि ! मनः सुकृतोपरुद्धम् । मिथ्यात्ववृत्तिमिव दुर्गतिपातभीत
मुच्चस्तरप्रणयभावनिबद्धकक्षाम् ।।४३।। किन्तु प्रवर्तयति तापमपारमेष
त्वत्कुक्षिजाततनयप्रतिपत्त्यभावः ।
svaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org