________________
१५६ • मङ्गलकलशकथानकम् चिन्तां यतो वहथ तेन वितर्कयामि
नाकारणं किमपि कार्यमवेक्ष्यते हि ॥३३।। मत्तो न चेहृदयनायक ! गोप्यमस्ति
सद्यः प्रसद्य तदिदं स्वयमेव वाच्यम् । यस्मान्मुखेन्दुवचनामृतमाऽऽप्य पत्युः
स्त्रीणां मनांसि समदं प्रमदं वहन्ति ॥३४।। तस्या निशम्य वचनं गिरमुज्जगार __श्रेष्ठी प्रहृष्टहृदयः सदयः स दक्षः । कान्ते ! किमेतदनुदीरितपूर्वमीदृग्
निर्व्याजभक्तिपरया जगदे भवत्या ॥३५।। गोप्यं बहिविषयतः क्रियतेऽपि धीरे
श्चित्तान्न किञ्चन विवेचनचारुबुद्धे ! । मच्चित्तभित्तिमधिशय्य विरिञ्चिनापि
पाञ्चालिकेव भवती लिखिता न वा किम् ? ॥३६।। नैवार्थहानिरुदधौ न च पोतभङ्गो
रोगो न कोऽपि शयने न च दुर्निरीक्षा । मावासवस्य मम कोऽपि न चापमान
श्चित्तं न तापयति काचन पद्मनेत्रा ॥३७।। अर्थस्य हानिमुपलभ्य त एव तापं
कुर्वन्ति येऽर्जयितुमर्थमयेऽसमर्थाः । अस्मादृशाः पुनरुदारतयाऽर्थहान्या
जल्पन्त्यमङ्गलमुपागतमाहतं नः ।।३८।।
Asxas
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org