________________
श्रीमुनिभद्रसूरिविरचितम् • १५५
नेपथ्यजातमखिलं तिलकं विनेव शीलं विनेव विनयं सुभगं कलत्रम् । प्रासादसर्जनमिदं कलसं विनेव
काव्यं सुबद्धमपि चारुरसं विनेव ॥२८॥ पुत्रं विना न भवनं सुषमां दधाति
चन्द्रं विनेव गगनं समुदग्रतारम् । सिंहं विनेव विपिनं विलसत्प्रतापं
क्षेत्रं स्वरूपकलितं पुरुषं विनेव ||२९|| तत्किं करोमि कमहं शरणं प्रपद्ये ?
कस्याश्रयामि सुगुरोश्चरणाब्जयुग्मम् ? । यस्य प्रसादवशतस्तनयो ममापि
संपद्यते सपदि सम्मदमादधानः ||३०|| इत्थं विचिन्तयत एव विभातकृत्यं
यावन्न तस्य मनसो विषयं बभाज । तावत्समेत्य रभसात् सह संभ्रमेण
तत्प्रेयसी प्रियमिदं निजगाद वाक्यम् ॥३१॥ किं द्रव्यहानिरभवद् भवतां कुतश्चित् ?
किं यानपात्रमुदधौ निममज्ज किञ्चित् ? । काचिद् रुजा किमुत बाधत एव देहे ?
दुःस्वप्नदर्शनमहो किमथापि जज्ञे ? ||३२|| राज्ञोऽपमानमथवा हृदये दधध्वे
योषां विशेषसुभगां यदि वापि काञ्चित् ? ।
esta
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org