________________
१५४ • मङ्गलकलशकथानकम्
मुक्ताफलानि यवनालकराशिवन्मे
हर्म्ये बृहत्कुवलिकाफलमानवन्ति ॥ २२॥ युग्मम् ॥
क्षौमाणि सन्ति विविधानि विचित्रभाञ्जि गौणीवदङ्गणगतानि परः शतानि । मृत्सेष्टकावदमिताः कनकेष्टकाश्च
पाषाणवद् रजतखण्डकदम्बकानि ॥२३॥
वाहा दिवाकरमहारथवाहवाहदर्पापहारपटिमानममी वहन्तः । संख्यातिगाः किमिह सन्ति न मन्दुरायां
सप्ताननं प्रथितनामतया हसन्तः ||२४||
ईशानवाहनमहावृषभानुकारा
भाङ्कारनादजितभाद्रपदाम्बुवाहाः । कैलासशैलशिखरोच्चतरप्रमाणाः
मद्गोकुलेऽत्र वृषभा बहवोऽपि सन्ति ॥२५॥
वज्राकरेऽपि न भवन्ति च यानि वज्रा
यत्रैव तानि बहुधा द्युतिमन्ति सन्ति । माणिक्यमुख्यमणिसञ्चय एव सर्व:
सर्वात्मनैव गगने यदिवोडुचक्रम् ||२६|| सर्वं तदेतदफलं तनयं विना मे
विद्यास्थितेर्गुणगणो विनयं विनेव ।
स्फाती रसेशितुरनल्पनयं विनेव चारित्रमुज्ज्वलतरं च शमं विनेव ||२७||
eovav
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org