________________
श्रीमुनिभद्रसूरिविरचितम् • १५३
यो वीतरागपदपूजनमाचचार
यः श्रद्धया गुरुपदप्रणतिं चकार । धर्मं दयासमुदितं हृदि यो बभार
रत्नत्रयं परमभूषणमाश्रयद्यः ||१७|| त्रिभिर्विशेषकम् ।।
भार्यापि तस्य समपद्यत सत्त्यभामा
चन्द्रावदातघनसातगुणाभिरामा ।
पुण्यानुभावपरिपूरितचित्तकामा शीलश्रियावमतविश्वविवर्तिवामा ॥ १८ ॥
अर्द्धाङ्गदानकपटेन महेश्वरेण
संरक्ष्यमाणनिरवग्रहविभ्रमां यत् ।
गौरी जहास धनदत्तधनेशपत्नी
व्रीडां वहन्त्यजनि तेन च साऽत्र काली ॥१९॥ युग्मम् ॥
सार्द्धं तयाप्यनुभवन् विषयोत्थसौख्यं
मासानिवागमयदद्भुतऋद्धिरब्दान् ।
मासान् दिनानिव दिनानिव सोऽपि यामान् यामान् क्षणानिव विचक्षणमौलिरत्नम् ||२०||
अन्येद्युरात्मसदनं समुपेत्य भूप
प्रासादतः सुदयया परिवीतमूर्तिः ।
पूजां वितत्य भुवनाधिपतेः प्रदोषे
संभाव्य विभ्रमवचोभिरसौ स्वजायाम् ||२१||
निद्रासुखं समनुभूय निशावसाने
किञ्चिद् विचिन्तयति स स्म परं प्रबुद्धः ।
959
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org