________________
१५२ . मङ्गलकलशकथानकम् आसीन्महीपतिरशेषमहीद्रसिंह
स्तत्राभिधानविदितः स तु वैरिसिंहः ॥११।। एकेन येन सकलार्थिसमीहितानि
सम्पादितानि समवेक्ष्य विलज्जमानाः । ते दुर्गमेरुगिरिगह्वरबद्धवासाः ___पञ्चापि नूनमभवन्सुरशाखिनोऽपि ॥१२॥ युग्मम् ।। जायापि तस्य समजायत सोमचन्द्रा
स्वाङ्गोत्थगौरिमपराजितसोमचन्द्रा । आस्यप्रभाहसितशारदसोमचन्द्रा __ सौजन्यवासपरिवर्द्धितसौम्यचन्द्रा ।।१३।। सौभाग्यलक्षणगुणेन विचक्षणा या
कात्यायनी पशुपतेर्दयितामजैषीत् । उल्लासियौवनविलासमनोहराङ्गी
किं शक्तिरप्रतिहता न हि निर्मिमीते ? ॥१४।। युग्मम् ।। श्रेष्ठी वरिष्ठगुणरत्नमहासमुद्र
स्तत्राजनिष्ट सुमतिर्धनदत्तनामा । राजप्रसादसदनं सदनन्तकीर्तिः
सङ्ख्यातिगद्रविणनिर्जितराजराजः ॥१५।। शङ्कां कदापि न चकार विकारहीनो
नाकाङ्क्षणं क्वचन यो विचिकित्सनं न । मिथ्यादृशां स्तवनसंस्तवने न चापि
सम्यक्त्वमात्ररतिरेव विवेकपात्रम् ।।१६।।
Oice
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org