SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १५१ तत्रास्ति चैत्यरुचिरा नगरी विशाला शश्वत्समृद्धिसमुदायमहाविशाला । अभ्रंकषोच्चकपिशीर्षकशालिशाला शुभ्रांशुमण्डलसमुज्ज्वलचित्रशाला ||६|| यस्याः प्रसिद्धममृतं किमु नामृतं तन्माधुर्यधुर्यमुपमानविवर्जितं यत् । अन्यद् भवेद्यदि कुतः परिदृश्यते न तस्मात् तदप्यमृतमेव वितर्कयामः ||७|| एकाग्रमानसतया महतां जिनेन्द्रान् साधून् गुरून् प्रणमतां ददतां धनानि । साधर्मिकानपि च भोजयतां यथेच्छं यस्यां दिनानि किल पुण्यवतामगच्छन् ॥८॥ सद्विद्ययैव विनयः कृपयैव धर्म: स्नेहः प्रकर्षमतुलं कलयन्प्रकृत्या । त्यागः श्रिया सह समेत्य कुटुम्बभावमापद्य यत्र वसति स्म नयेशभाजि ॥ ९ ॥ वाराणसी दिविषदापगया यथैव पाथोब्जिनीसुतया मथुरा यथैव । श्रीकोशलापि नगरी च यथा सरय्वा या शिप्रयैव सरिताऽपि तथा विभाति ॥ १०॥ लोकप्रशासननिमित्तविधौ नृसिंह: प्रत्यर्थिपार्थिवमहेभविभेदसिंहः । Jain Education International ebyaq For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy