SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ६. श्रीमुनिभद्रसूरिविरचितम् मङ्गलकलशकथानकम् ॥ संजज्ञिरे प्रथमतीर्थकरस्य तस्य, पुत्राः शतं भरतचक्रिमुखा नरेन्द्राः । ज्ञानत्रयावगतविश्वविशेषकृत्यः सांसारिकव्यवहतिं समदीदृशद् यः ॥१॥ [वसन्ततिलका] तेषु प्रतापभवनं समजायतैकः श्रीमानवन्तिरिति विश्रुतनामधेयः । पुत्रः पवित्रचरितः पितृदत्तदेश स्तस्याख्ययैव विषयः प्रथितोऽस्त्यवन्तिः ॥२॥ क्षेत्रेषु यत्र विविधैरपि धान्यजातै र्जातैः समस्तधरणीतलपूर्तिकारैः । स्वस्यावकाशमधिवस्तुमविन्दमानं दुर्भिक्षमन्यविषयं रभसाद् बभाज ॥३।। तुङ्गेक्षुदण्डविपिनं मिलिताग्रभागं पार्श्वद्वयेऽपि सरसं समवेक्षमाणाः । नैदाघदाघसमयेऽपि पथि प्रवृत्ताः पान्थाः श्रमं किमपि यत्र न जानते स्म ॥४|| श्यामाककोद्रवकुलित्थकराजमाषा___ कङ्ग्वादिकं कदशनं समवेक्ष्यते न । विज्ञायते न खलु यत्र च नालिकेर द्वीपाधिवासिपुरुषैरिव जातवेदाः ।।५।। त्रिभिविशेषकम् ।। ovaa Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy