________________
श्रीमुनिदेवसूरिविरचितम् • १४९ वीक्ष्य भद्रा सहचरी, पतिं त्वग्दोषदूषितम् । श्रीदेव्या गदितं हास्यात् तस्याः सम्मुखमीदृशम् ।।१९५।। सखिकेऽङ्गप्रभावस्ते, स्वपतिर्येन दूषितः । भद्रा तदा तदाकर्ण्य, हृदि दोदूयते स्म सा ॥१९६।। क्षमितेति क्षणादूर्वा, वयस्ये ! मा कृथा वृथा । खेदं हृदि यतो जन्तोः, कर्मैव कुरुतेऽखिलम् ।।१९७।। अथ सोमेन्दु-तत्पत्न्यौ, मृत्वा जातौ युवां क्रमात् । जातः परार्थदानेनाऽवक्रयोपयमस्तव ॥१९८।। सख्याश्च दोषदानेन त्वत्प्रियायाः कलङ्किता । ईदृग् मुनिवचः श्रुत्वा, जज्ञे जातिस्मृतिस्तयोः ॥१९९।। राज्ये निवेश्य तनयं, सनयं भूपतिस्ततः । समं त्रैलोक्यसुन्दर्या, प्रव्रज्य स्वर्गभागभूत् ॥२००।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org