________________
१४८ • मङ्गलकलशकथानकम् राजा जामातरं चक्रे, युवराजं स भेजिवान् । समं त्रैलोक्यसुन्दर्या, सुखं त्रैलोक्यसुन्दरम् ॥१८४।। अथास्थानधरित्रीस्थं, धरित्रीशं वनावकः । व्यजिज्ञपद् यशोभद्रगुरोरागमनं मुदा ॥१८५।। तदाकर्ण्य क्षमाधीशः, क्षमाधीशपदाम्बुजम् । नन्तुं जगाम स वने, नामतोपि मनोरमे ।।१८६।। सुधोमिवर्मितां तत्र, श्रुत्वा तद्देशनागिरम् । राज्ये जामातरं न्यस्य, स्वयं दीक्षामुपाददे ॥१८७।। परोपि भक्त्वा विद्वेषिशाखिशाखां महाबलः । हरितोऽलम्भयत्कीर्तिसौरभं सौरभङ्गिभृत् ।।१८८।। कुस्वामिचरितग्रीष्मशुष्कं नीतिलतावनम् । सुवृत्तेनोन्नताब्देन, नृपतिनिरवापयत् ॥१८९।। जयसिंहोऽन्यदा ज्ञानी, मुनिर्नत्वा महीभुजा । प्राग्भवं स्वस्य देव्याश्च, पृष्टः स्पष्टं न्यवेदयत् ।।१९०।। क्षितिप्रतिष्ठितपुरे, पुराऽभूत् कुलपुत्रकः । सोमचन्द्रं इति ख्यात, श्रीदेव्यस्य कुटुम्बिनी ॥१९१।। वयस्यो जिनदत्तोऽस्य, श्राद्धः श्रद्धाविशुद्धधीः । गच्छन् देशान्तरं तस्मै, दानाय स्वं स्वमार्पयत् ।।१९२।। तस्मिन्देशान्तरं प्राप्ते, तदीयं ददतो धनम् । अमुष्यापि क्रमाद् दानश्रद्धामानसमानसे ॥१९३।। श्रीदेव्या अपि तद्दृष्ट्वा, दानधर्मेऽभवन्मतिः । कुलपुत्रेण पात्रशात् कृतं स्वं स्वं नयार्जितम् ।।१९४।।
OSe
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org