________________
श्रीमुनिदेवसूरिविरचितम् • १४७ लात लातैनमित्यूच्चैः, कुमारोदितवात्यया । तुषराशिरिवोड्डीनः, सच्छात्रः पण्डितस्ततः ।।१७३।। अथासने निवेश्यैनं, भद्रं भद्रेभगामिनी । ऊचे नाथ ! कथं त्यक्ता, तदाऽहं मन्दभागिनी ? ||१७४|| यदु:खं त्वद्विना सोढं, मनसोऽपि न गोचरम् । सहन्तु दुःसहं तन्मा, मद्विषोऽपि कदाचन ॥१७५।। इत्युदित्वा नृवेषं तं, प्रत्यर्प्य नृपतेः सुता । सत्कृत्य प्राहिणोत् सिंह, सह सैन्यैः पितुर्गृहम् ।।१७६।। समं मङ्गलकुम्भोपि, वध्वा नूतनयाऽनया । प्रणनाम पितुर्मातुः, पदपद्मौ यथाक्रमम् ॥१७७।। सिंह: प्रत्यर्पयामास, तं नृवेषं महीभुजे । सोऽपि तं मुदितस्वान्त, इत्यशंसन् मुहुर्मुहुः ॥१७८।। सत्क्रमस्य सुसत्वस्य, तवाज्ञाये(यी) भघातिनः । सिंहत्रैलोक्यसुन्दर्याः स्थाने शीलवानाऽवनम् ॥१७९।। अवन्तीशमनुज्ञाप्य, सप्रियः स्वजनैः समम् । आयान्मङ्गलकुम्भोऽपि, चम्पानृपनिदेशतः ।।१८०।। राजाऽपि मन्त्रिदुर्वृत्तं, सत्यं निश्चित्य चेतसि । गृहीत्वा गृहसर्वस्वं, व्यधाद् वध्यमवन्ध्यरुट् ।।१८१।। निपत्य पादयोरेनं, जामाता पर्यमोचयत् । विषयं तं परित्यज्य, गतोऽसौ विषयान्तरम् ।।१८२।। इहलोकेऽपि यदुःखसहनं स समुद्गमः । अमुत्र तु फलं किञ्चिदन्यदन्यायशाखिनः ॥१८३।।
OSex
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org