________________
१४६ • मङ्गलकलशकथानकम् तद्विज्ञप्तेन भूपेन, सुताऽऽहूता व्यजिज्ञपत् । त्वज्जामातास्त्यवन्त्यां तत् तात ! पुंवेषमर्पय ।।१६३।। एनं संसोध्य गृह्णामि, यथाऽहमथ तद्व्यधात् । सिंहमारक्षमादिश्य, सर्वं सर्वंसहापतिः ॥१६४।। ययौ च राज्ञाऽनुज्ञाता, सा भटैरुद्भटैर्वृता । गाम्भीर्येण नृपोऽप्यस्थाद्गूढकोपश्च मन्त्रिणि ।।१६५।। मालवाऽधिपतिर्मत्वा, चम्पाधिपतिनन्दनम् । आयान्तमभ्युत्थानाद्यैः, सच्चकार विचारवित् ॥१६६।। एषोऽन्यदा सरस्तीरे, गच्छतः सदनाग्रतः । पितृनामाङ्कितानश्वानादर्शद् दर्शनीयधीः ॥१६७।। तत्पृष्टगैनरैर्मत्वा, तद्गृहाद्यं स शुद्धधीः । सिंहेनालोच्य सच्छात्रमुपाध्यायं न्यमन्त्रयत् ।।१६८॥ आसनाऽशनवस्त्राद्यैः, स सर्वानप्यमानयत् । पतिं स्वकैः स्तुतैः सर्वैर्गौरवंशः सगौरवम् ॥१६९।। वैवाहिकानिव नवान्सर्वान्सन्मान्य भूपजः । छात्रैः कथयितुं वीतकथामाचार्यमुचिवान् ॥१७०।। कुमारोक्तकलाचार्यादिष्टछात्रैः क्रुधोदितम् । बाढं गौरवितो योऽस्ति, स कथां कथयत्वयम् ॥१७१।। अथ मङ्गलकुम्भस्तां, मत्या मत्वा निजप्रियाम् । स्वमुद्वाहादिकं सिंहादिकानां श्रुण्वतां जगौ ॥१७२।।
८. 'गौरवंशः सः आसनाऽशनाद्यैः सर्वानपि अमानययत्, पतिं [च] स्वकैः स्तुतैः सर्वैः सगौरवं अमानयत् ।' इत्यन्वयः कार्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org