________________
श्रीमुनिदेवसूरिविरचितम् • १४५ विशालानगरी यस्मात्सा योजनशतान्तरा । भविता यदि वा तत्र, गेहमेतत्प्रसूपितुः ॥१५२।। विचिन्त्येति लवङ्गैलाकर्पूरसुरभीकृतम् । ताम्बूलं सा ददौ स्वस्य, सरङ्गमिव मानसम् ॥१५३।। देहचितामिषेणैष, विनिर्गत्य पुनस्ततः । चतुरस्तुरगान् पञ्च, लात्वाऽवन्ती क्रमाद् ययौ ॥१५४|| तमालोक्य समायातं, पितरौ नितरां मुदा । अतुच्छमुत्सवं जन्मोत्सवतुल्यं वितेनतुः ॥१५५।। विधाप्य मन्दिराऽदूरे, मन्दुरां सुन्दराशयः । अश्वान् स बन्धयामास, वासवाश्वसमाश्रयः ॥१५६।। पित्रोः स्ववृत्तमावेद्य, हृद्यां विद्याख्यवल्लरीम् । शिषेवाऽध्यापकाम्भोदशास्त्राम्भोभिः शुभाशयः ॥१५७।। अयमात्मनृपो देहसौधस्थः सुमतिप्रियः । सुवर्णैर्भूष्यते शास्त्रैर्यथा न तु तथापरैः ॥१५८।। राजात्मजापि पल्यङ्के, शयानं मन्त्रिनन्दनम् । वीक्ष्य हित्वा च तं वेगान्निरगाद् वासवेश्मनः ॥१५९।। दासीमध्यनिषण्णा सा, विषण्णा गमयन्निशाम् । सचिवो नृपतिं प्रातः, सेवायातो व्यजिज्ञपत् ॥१६०।। कल्ये कल्येन देहेन, युतो मम सुतः प्रभोः । त्वत्सुतास्पर्शरोगेणाक्रान्तस्तत् किं करोम्यहम् ? ॥१६१।। श्रुत्वेति दृक्पथाद्देवी-नृपाभ्यां सा निवारिता । उवाच सिंहं राजन्यं, पितृविज्ञप्तिहेतवे ।।१६२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org