________________
१४४ • मङ्गलकलशकथानकम् क्षौमाणि मङ्गले चाद्ये, भूषणानि द्वितीयके । तृतीये स्वर्ण-माणिक्यं, रथाश्वादि चतुर्थके ।।१४१॥ दत्वैवमुचितं भूपो, वधूकरममोचयत् । ऊचे च तं पुनः किञ्चिद्, याचस्व विषयं वरम् ।।१४२।। देव ! पञ्च प्रदीयतां, पञ्चवल्लभवाडवाः । स्तोकं त्वयेष्टमित्युक्त्वा, ददौ भूपस्तुरङ्गमान् ।।१४३।। सोऽथ वासगृहं यावत्प्रविष्टः किङ्करीजनैः । निर्वास्यतामयं तावदिति प्रोचे मिथः शनैः ।।१४४।। एषोऽपि तत्समाकर्ण्य, विचार्य मनसा क्षणम् । देहचिन्तामिषेणाशु, निर्ययौ वासमन्दिरात् ॥१४५।। स्वर्णपात्रं पयःपूर्णं, तूर्णमादाय पाणिना । राजकन्याऽपि तत्पृष्टमगाच्छायेव देहगा ॥१४६।। आयान्तं देहचिन्तायाः, पतिमुन्मनसं तदा । वीक्ष्य प्राह वधूर्नाथ !, किमु त्वां बाधते क्षुधा ? ॥१४७|| तस्मिन्नजल्पति वधूः, प्रेक्ष्य चेटी प्रियङ्करीम् । स्थालमानाययच्चित्तमोदकैर्मोदकैर्भूतम् ।।१४८।। एकस्थालस्थितास्ताभ्यां, चातुर्जातकसंस्कृताः । उभाभ्यामप्यभुज्यन्त, सिंहकेसरमोदकाः ॥१४९।। तेनाऽदताऽस्याः स्वस्थानज्ञापनायेत्यभाषत । मोदका मोदका एते, विशालावारिणा परम् ।।१५०।। विस्मिता चिन्तयच्चेति, तदाकर्ण्य नृपाङ्गना । कथमीदृगसम्बद्धमार्यपुत्रेण भाषितम् ? ॥१५१।।
Six
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org