SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिदेवसूरिविरचितम् • १४३ क एवं कुरुतेऽन्यायं, कन्यामन्यार्थमुद्वहन् । बालेनेत्यूदिते मन्त्री, कुपितोऽन्तकवद्भृशम् ॥१३०॥ निस्त्रिंशवृत्तो निस्त्रिंशं विकोशीकृत्य धावितः । कृपाद्रैर्यामिकैर्मन्त्री न्यवारित्क्रूरकर्मतः ॥ १३१ ॥ तैर्बोधितः स बालोऽपि व्यालोक्य मतिचक्षुषा । ऊचे तन्मम दातव्य, यल्लेभे करमोचने ॥१३२॥ इति मङ्गलकुम्भोक्तं, सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमादवैवाहिकं विधिम् ॥ १३३ ॥ अथ व्योम्नः प्रतिछन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः, स्वानुरुपमकारयत् ॥१३४॥ कुमारकः कृतस्नानः, कृतचन्दनलेपनः । सदशश्वेतवसनो, हस्तविन्यस्तकङ्कणः ॥१३५॥ दत्तकुङ्कुमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तुङ्गमेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥१३६॥ द्राधीयोभिर्वरस्त्रीणां, उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधद् दिवं नादमयीमिव ॥ १३७॥ कृतशक्रधनुर्दण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप, मण्डपद्वारसन्निधिम् ॥ १३८ ॥ चतुर्भिःकुलकम् ॥ उत्तीर्य कुञ्जरात् तुङ्गात्, कुलस्त्रीभिः कृतं तदा । अर्घमेष प्रतीयेष, प्रद्योतन इव प्रगे ||१३९ || सम्प्राप्ते च शुभे लग्ने, ग्रहदोषादिवर्जिते । अमीयत करौ मङ्क्षु, वरवध्वोः पुरोधसा ॥ १४०॥ Obten Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy