________________
१४२ • मङ्गलकलशकथानकम् प्रत्यक्षकुम्भ-मकर मीन-कर्कसमाश्रयम् । हंसं विना गतश्रीकं तदा व्योमसरोऽभवत् ॥११९।। सोऽथ न्यग्रोधमारूढ उत्तरेण हुताशनम् । प्रज्वलन्तं निशाशेषे दृष्ट्वाऽहृष्यत् कुमारकः ।।१२०।। तमुद्दिश्य गतस्तप्यमानश्च स्थानपालकैः । सुशीलः प्रहतोऽश्लीलप्रहारैरेष मस्तके ॥१२१।। एकेन स्थानपालेन, स्मृत्वा तन्मन्त्रिभाषितम् । तेभ्योऽपसार्य विजने, स वह्नौ तापितः क्षणम् ।।१२२।। तदैव चार्पयामास, मन्त्रिणे स कुमारकम् । तं च देवकुमाराभं, दृष्ट्वा हृष्यन्महत्तमः ॥१२३।। अनिशं सरसैरन्नपानैः पोषयति स्म तम् । विजने स्थापयित्वा च, रक्षयामास यामिकैः ॥१२४।। एकदा सचिवस्तेन, पृष्टस्तात ! कुतो मम । यत्नो वैदेशिकस्यापि, किं नामा त्वं ? पुरी च का ? ||१२५।। तेनोक्तं विदधे वत्स !, स्वार्थेन तव गौवरम् । इयं चम्पापुरी ख्याताऽहं च तन्नाथधीसखः ।।१२६।। कः स्वार्थो बालकेनेति, पृष्टेऽथ सचिवोऽब्रवीत् । स्वार्थं निवेदयिष्यामि, कस्मिंश्चित्समये तव ॥१२७।। गतेषु वासरेष्वेष, कियत्स्वपी स तं पुनः ।। स्वार्थं प्रपच्छ सोऽथास्मै, स्वाभिप्रायं न्यवेदयत् ।।१२८।। असौ विधुरकः प्राह, तात ! पातककारकम् । आः ! किमुक्तं युक्तिमुक्तं, वचः कुलकलङ्ककृत् ।।१२९।। ७. प्रत्यक्षकं तु मकरं - पा-१ ।
DISIO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org