________________
श्रीमुनिदेवसूरिविरचितम् • १४१ अयमीदृगरण्यान्यामविज्ञातहरिद्गणः । मार्ग विमार्गयन् यूथभ्रष्टो मृग इवाभ्रमत् ।।१०८।। अथाह्वयन्तमध्वन्यान् तटदुविहगस्वनैः । सवारि वारिभृत्साम्यशालि पालिद्रुमावलिम् ।।१०९।। नवभ्योऽभिनवं भूमौ, सुधाकुण्डमिवागतम् । विष्वक् पालिच्छलाद् भूमौ, रक्ष्यमाणं महाहिना ॥११०|| कुम्भोद्भवभयान्मूर्ति लघूकृत्य वनान्तरे । नष्टं क्षीरोदधिमिव भृङ्गाम्भोदचयाञ्चितम् ॥१११।। तटद्रुमप्रतिच्छायशिलोच्चयशताङ्कितम् । सूर्यबिम्बप्रतिबिम्बलसद्वाडवसंश्रितम् ॥११२।। इतस्ततः परिभ्राम्यत्कस्मिंश्चिन्निर्जने वने । कासारं पद्मिनीखण्डसारमीदृक्षमैक्षत ।।११३।। पञ्चभिः कुलकम् ॥ तत्र स्नात्वा स पीत्वा च, जलं पालिवटद्रुमे । वटपादैः समारुह्य प्रौढमार्ग व्यमार्गयत् ।।११४।। अथ मित्रस्तदीयेन दुखेनेवातिपीडितः । अस्ताद्रिमौलिमारुह्य, पतति स्म पयोनिधौ ।।११५।। या तमःप्रणिधिश्रेणी वृक्षछायाच्छलादभूत् । वासरे वासरेशस्योत्रैः साऽधावत सर्वतः ।।११६।। क्रीडत्कालकिरातस्य कराद्भग्नांशुपञ्जरः । नष्टो जवेन हंसोऽयमपराम्भोधिमाविशत् ॥११७।। सञ्जाते गोपतेरस्ते भाति राजनियोजिता । भृङ्गालिः श्रीगृहाम्भोजद्वारि यन्त्रणशृङ्खला ॥११८।।
६. रविः ।
Asya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org