________________
१४० • मङ्गलकलशकथानकम्
अस्य व्याक्षिप्तचित्तस्य, विसस्मार च तद्वचः । अन्यदाऽपि तदाश्रौषीत्, सुमार्थं वाटिकां व्रजन् ।।९७।। अवश्यमेव तातायावेदयिष्यामि साम्प्रतम् । तस्यैवं ध्यायतो वात्या, प्रादुराशीत् क्षणादथ ।।९८।। तदा तत्पितरौ स्नेहादनायाते गृहं सुते । विमुच्यान्नं स्फुरच्चिन्तौ, विलापानिति चक्रतुः ।।९९।। हा वत्स ! स्वच्छमहत्वकुलकैरवचन्द्रमः ! । हा चन्द्राभयशोऽम्भोजराजहंससमप्रभ ! ॥१००|| हा राजहंसप्रतिमैरभिरामैर्गुणोत्करैः । हा रामचन्द्रचरित !, क्व गतो ? देहि दर्शनम् ॥१०१।। ततस्तत्प्रतिबोधाय, तद्भाव्यं पाणिपीडनम् । अपहारादिवृत्तान्तमाचष्टे शासनाऽमरी ॥१०२।। मनसाऽपि नरोयन्न, कदाचिदपि चिन्तयेत् । नूनं तत्रापि विस्फूतिर्मियति विधिजृम्भितम् ॥१०३।। जन्तूनां नियतेोगाज्जायमानं शुभाशुभम् । वारिधेरिवकल्लोलजालं केन निवार्यते ॥१०४।। स तया वात्ययोत्पाट्य तूलपूल इवाम्बरे । चम्पापूनिकटाटव्यां, भीषणायाममुच्यत ॥१०५।। भ्रमन्ति यमदोर्दण्डप्रचण्डाकारधारकाः । मणित्विषिनखा यत्र जन्तून् लातुं बिलेशयाः ॥१०६।। यस्यां जनङ्गमाचारा, जङ्गमाः पापमूर्तयः । कलिकालप्रतिच्छन्दा इव खेलन्ति नाहलाः ॥१०७|| युग्मम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org