________________
श्रीमुनिदेवसूरिविरचितम् • १३९ यद् वज्रमयदेहास्ते, शलाकापुरुषा अपि । न मुच्यन्ते विना भोगं, स्वनिकाचितकर्मणः ॥८६॥ सचिवः प्राह यद्येवं, तदन्यं कञ्चिदानय । यो दत्तेऽवक्रयेणापि, परिणीय नृपात्मजाम् ।।८७।। देवताह विधातास्मि, सर्वं त्वद्भक्तितोषिता । यथा स्याद् भक्तितस्तुष्टिदेवानां न तथाऽर्चनात् ।।८८।। अस्या एव पूरो दूरे, शीतार्हो यः कुमारकः । वह्नौ तापयते कोऽपि, स्थानपालतटस्थितः ।।८९।। तं गुप्तमाप्तेनानाय्य, राजकन्यां विवाहयेः । सचिवं शिक्षयित्वैवं, कुलदेवी तिरोदधे ॥९०॥ युग्मम् ॥ अनुद्विग्नमना लग्नं, गणकैर्विगणय्य सः । पाणिपीडनसामग्री, समग्रामप्यकारयत् ।।९१।। यः कश्चिन्मन्दुरापार्श्वे, रम्यरूपः कुमारकः । समभ्येति समानेयः, प्रच्छन्नं स ममान्तिकम् ॥९२।। त्वयैवं कुर्वता स्माकमादेश: सर्वथाकृतः । स एकं मन्दुरापालमाकार्येवमशिक्षयत् ।।९३।। युग्मम् ।। देवतापि विशालायां, गत्वा तद्वनसन्निधौ । इदं मङ्गलकुम्भाग्रे, व्योमस्था समभाषत ।।९४।। कुमारकोऽयमुद्वोढाऽवक्रयेण नृपात्मजाम् । इति व्योमवचः श्रुत्वा, विस्मितोऽयं व्यचिन्तयत् ॥९५।। कोऽयं ब्रवीति व्योमस्थो युक्तिमुक्तमिदं वचः । पित्रे निवेदयिष्यामि, ध्यायन्निति गृहं ययौ ॥९६।।
oyag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org