________________
१३८ • मङ्गलकलशकथानकम् गुणैविभाति सम्बन्धो, जन्मना भिन्नयोरपि । अन्यान्यदेशागतयोर्मणिकाञ्चनयोरिव ।।७५।। इति गाढाग्रहं मत्वा, महीनाथस्य धीसखः । तन्मन्ये", सेवका: स्वामिवाचां न विमुखाः क्वचित् ।।७६।। एवं विचिन्तयामास, मन्त्री मन्दिरमागतः । मया स्वामिसमादेशः, कथं निर्वाहयिष्यते ? ॥७७।। एष व्याघ्रतटीन्यायो, ममेदानीमुपस्थितः । न चैतन्निस्तरिष्यामि, देवतानुग्रहं विना ॥७८।। इत्याशु सचिवः कृत्वा, स्वधियैव विनिश्चयम् । एवं व्यजिज्ञपद्गोत्रदेवीं विरचिताञ्जलिः ॥७९।। अपारचिन्ताऽकूपारे, त्वम॒त्यस्य निमज्जतः । दुःखौघकर्शनं, देवि !, दर्शनं तव पोतवत् ।।८०|| इत्युक्त्वा दर्भगर्भेण, सस्तरं विरचय्य सः । तस्या एव पुरः शिस्ये, तदनुध्यानबद्धधीः ॥८१।। अथ विश्वक् प्रभापूरैर्दूरीकृततमोभरा । सचिवं शर्वरीशेषे, बभाषे कुलदेवता ॥८२।। विहितं मदनुध्यानं, वत्स ! स्वच्छमते कथम् ? । इत्याकर्ण्य प्रमुदितो, बभाषे धीसखस्ततः ॥८३।। जालीमन्त्रसङ्काशत्वत्प्रसादप्रभावतः । मत्पुत्रकायबिलतो यातु रोगोरगः क्षयम् ।।८४|| देव्यूचे तव पुत्रस्य रोगपूगक्षयो मया । कर्तुं न पार्यते विश्वे, नूनं भोग्यं हि भुज्यते ॥८५।। ५. यदि 'तन्मेने' पाठः, तर्हि सुष्ठ ।
TOYAG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org