________________
श्रीमुनिदेवसूरिविरचितम् • १३७ अन्यदा सा समाजस्थं, महिनाथमुपस्थिता । नन्तुं गुणावलीदेव्यादेशाद् यौवनशालिनी ॥६४।। तां वीक्ष्य क्ष्मापतिर्दक्षश्चिन्तयामास चेतसि । कोऽनुरूप: सरूपाया, वरोऽमुष्या भविष्यति ? ॥६५।। विचिन्त्येति समाजं स, विससर्ज महीपतिः । मध्येऽन्तपुरमागत्य, तच्च देव्यै न्यवेदयत् ।।६६।। तया पराभिरप्यूचे, नाथेयं दुहिता तव । एककैव ततोऽमुष्या, न वियोगं क्षमामहे ॥६७।। अत्रैव पुरि कस्मैचित् तदेतां प्रतिपादय । तद्गृहात् तूर्णमागत्य, नित्यं सङ्गच्छते यथा ॥६८।। ऊचे सुबुद्धिनामानमथामात्यं क्षमापतिः । मत्सुतां मन्निदेशात् त्वं, स्वसुतेन विवाहय ।।६९।। विभाव्य मन्त्री त्वग्दोषदूषितं स्वसुतं हृदि । ऊवाच किमिदं स्वामिन्नुच्यतेऽनुचितं वचः ? ॥७०।। क्वैरावतः क्व च हुडु: ?, क्व पारीन्द्रः क्व जम्बुक: ? । क्व गरुत्मान् क्व मशकः ?, क्व नागेशः क्व राजिलः ? ७१।। क्व पीयूषं क्व सौवीरं ?, क्व समुद्रः क्व गो:पदम् ? । देवः क्व विश्वसंसेव्यः ?, क्वाहं देवसेवकः ? ॥७२।। किं च स्यान्न यथा प्रद्योतन-खद्योतपोतयोः । सम्बन्धः सुन्दरो देव !, सेव्य-सेवकयोस्तथा ॥७३।। तं प्रत्याह नराधीश, ईदृशं भद्र ! मा वद । यतो द्वयोर्गुणवतोः, सम्बन्धः शोभते भृशम् ।।७४।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org