________________
१३६ • मङ्गलकलशकथानकम् उद्यानं गतवानेष, जनकेन सहैकदा । श्रेष्ठिनं च शिशुः कोऽयमिति पप्रच्छ पुष्पचित् ॥५३।। पुत्रो ममेति तेनोक्ते, तत्तदौचित्यकृत्यवित् । मालिको बालकायादाल्लाङ्गलीफललुम्बिकाम् ॥५४॥ उवाच पितरं बालो, विनीतो गृहमागतम् । अहमेवान्वहं याता, तातारामं सुमोच्यये ।।५५।। तेनोक्तं वत्स ! मार्गस्यानभिज्ञस्त्वम् शिशुत्वतः । शिरीषसुकुमाराङ्गः स चारामोऽतिदूरतः ॥५६।। स प्राह विदितस्तात !, मार्गः संप्रति गच्छतः । का च मे पितुरादेशं, कुर्वतः सुकुमारता ? ॥५७॥ इत्याग्रहेण गच्छन्तं, पितरं विनिवार्य सः । उद्याने स्वयमेवागान्नित्यं जनकभक्तिभाक् ॥५८| प्रसूनान्यानयन्नित्थं, स मेधाजितवाक्पतिः । अन्तरन्तधीयानोऽकलयत्सकला: कलाः ॥५९॥ इति मङ्गलकुम्भोऽयं, निदेशं विदधत् पितुः । क्रमेण मध्यमध्यास्त, शावभावयुवत्वयोः ।।६०॥ इतश्च पूरि चम्पायां, रमाजितपुरन्दरः । कृतद्वेषिदरः पृथ्वीनाथोऽस्ति सुरन्दरः ॥६१।। महिषी तस्य निस्तन्द्रचन्द्रोज्वलगुणावली । गुणावलीति विख्याता, लावण्यरसवाहिनी ॥६२।। तदङ्गजा गजगतिर्नाम्ना त्रैलोक्यसुन्दरी । उत्सङ्गसङ्गिफलवल्लतास्वप्नेन सूचिता ॥६३।। ४. पुष्पाणि चिनोति इति पुष्पचित्, मालिकः इति ।
Dislae
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org