________________
श्रीमुनिदेवसूरिविरचितम् • १३५
कण्ठावलम्बिसुमन: श्रेणीभिः समलङ्कृतम् । मुखस्थपद्मसौरभ्यलुभ्यद्भ्रमरबन्धुरम् ॥४२॥
मूर्तं पुण्यमिवात्मीयमानन्दस्येव सञ्चयम् । शातकुम्भमयं स्वप्ने, पूर्णकुम्भं निरैक्षत ||४३|| त्रिभिर्विशेषकम् ॥ प्रातर्निवेदयामास सापत्ये मुदिताशया ।
सोऽपि स्वप्नमुभाषिष्ट, हृष्टस्तत्पुत्रसम्भवम् ॥४४॥ तदादि गर्भं सा बभ्रे, समं दयितसंमदैः । रसैर्मितैर्हितैयत्नात् तोषपूर्णा पुपोष च ॥४५॥ काले च सुषुवे पुत्रं, प्रातः प्राचीव भास्करम् । सच्चक्रनन्दनपटुं, पितृदुःखतमोपहम् ॥४६॥ धनदत्तोपि विज्ञप्य, भूपं कारितवान्पुरे । गन्धनीरच्छटां राजमार्गे मञ्चविपञ्चनम् ॥४७॥ उत्तमाङ्गेन निर्यातः, सीमन्तघुसृणच्छलात् । तज्जन्मरङ्गो नारीणामसंमानिव मानसे ||४८|| सुते कलाविलासिन्योद्रक्ष्यन्त्यत्र मुखं सुखम् । इतीव न्यासि वंशाग्रे, दर्पण: शिशुपाठकैः ॥४९॥ महोत्सवे व्यतिक्रान्ते षष्टीजागरणादिके । बन्धून्निमन्त्रयामास, द्वादशे दिवसे पिता ॥५०॥ मङ्गल्यकारकः कुम्भः, स्वप्ने मात्राऽस्य वीक्षितः । 'मङ्गलकलश' इति, चक्रे नाम ततः शिशोः || ५१|| धात्रीभिर्लाल्यमानोऽथ, साकं पितृमनोरथैः । वर्धमानो बभूवायमष्टवर्षवयाः क्रमात् ॥५२॥
PSxce
Jain Education International
,
For Personal & Private Use Only
www.jainelibrary.org