________________
१३४ • मङ्गलकलशकथानकम् न रुजा नेष्टनाशो मे, नार्थहानिर्मनागपि । अपमानान्महीभर्तुराधिः कापि न मानसे ॥३१॥ परमेतदपुत्रत्वमनिशं बाधतेऽधिकम् । हृदयेऽवस्थितं शल्यमतुल्यमिव लिप्तकम् ॥३२।। श्रुत्वेति सा पुनः प्राह, प्रिये ! कोपि न कर्मणाम् । विभुवि तथापि स्युः, सिद्धयो न विनोद्यमम् ॥३३।। सर्वकामदमेकाग्रं, त्रिसन्ध्यं देवपूजनम् । विधेहि धेहि तद्धर्मे, मतिं मतिमतांवर ! ॥३४॥ सुगुरोश्चरणद्वन्द्वमद्वन्द्वसुखदायकम् । वरिवस्य तथा वित्तं, दत्त्वार्थिषु कृतार्थय ॥३५।। निर्निदानं मुदा दानं, पात्रेभ्यो देहि शुद्धधीः । जिनेश्वरवचश्चारु पुस्तकेषु निवेशय ॥३६।। यद्येवं कुर्वतः पुत्रो, भावी तत् तव सुन्दरम् । अन्यथा परलोकाय, कृतं सुकृतसेवनम् ॥३७॥ धनोऽमन्यत तत्सर्वं, तथेति दयितावचः । बालेभ्योऽप्यबलाभ्योपि, सद्भिर्लाह्या शुभा मतिः ॥३८॥ इदं विदधते पूर्वप्रत्यूहव्यूहहानितः । तस्मै तुतोष सन्तोषवते शासनदेवता ।।३९।। धनस्याथ प्रसुप्तस्य, प्रत्यक्षीभूय सा निशि । उवाच वत्स ! दत्तस्ते, कुलोद्योतकरः सुतः ॥४०॥ अथान्यदा निशाशेषे, सत्यभामाऽस्य गेहिनी । शयनीये सुखस्पर्श, सुप्ता गङ्गाजलोज्वले ॥४१।। ३. विषाक्तं शरम् ।
OSCO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org