________________
श्रीमुनिदेवसूरिविरचितम् • १३३ यौवनार्धं गतमिदं, सन्निधाने च वार्धकम् । जज्ञे गार्हस्थ्यवृक्षोयमवकेशी विना सुतम् ॥२१॥ रसं विनेव काव्यानि, पृथक् प्रेमेव च प्रिया । ऋतेऽब्जमिव कासारा, नाना वृष्टिमिवाम्बुदाः ।।२२।। गन्धेनेव प्रसूनानि, विवेकेन गुणा इव । तनयेन विना पुंसो, न विभान्ति विभूतयः ॥२३।। युग्मम् ॥ मदन्वयोदधि वृद्धि, नयन्नयनिधेः सुतः । केनोपायेन भविता, शशीवाभ्युदयी ततः ॥२४॥ एवं विकल्पकल्लोलैः, सुतचिन्तासमुद्रजैः । प्रेर्यमाणस्य तस्याभूत्, क्षणादाऽक्षणादार भृशम् ।।२५।। शय्योत्थायं ततः प्रातःकृत्यमातत्य तस्थुषः । अस्यास्ये श्यामिकां वीक्ष्य, भामाऽभाषिष्ट दुःखभाक् ।।२६।। बाधते भवतामऊं, नाथ ! कापि रुजा कथम् ? । इष्टनाशभवं किञ्चिदसुखं मानसेऽथ वा ? ॥२७॥ व्यवहारमहारम्भे, द्रव्यहानिर्बभूव वा ? | नृपापमानतः कश्चिदाधिः प्रादुर्बभूव वा ? ॥२८॥ अभूतपूर्वं यदिदं, मुखे श्यामत्वमेधते । गोप्यं मम न चेदेतदस्ति तन्नाथ ! कथ्यताम् ॥२९।। धनः प्राह प्रियेऽवाचि, त्वयाऽत्यनुचितं वचः । किं तद्गोप्यं किमप्यस्ति ? चित्ताद् यदपलप्यते ? ॥३०॥
२. क्षणं उत्सवं आनन्दं यावत्, तं ददाति - क्षणदा, न क्षणदा अक्षणदा, अथवा क्षणं द्यति छिनत्ति इति क्षणदा।
CASA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org