________________
१३२ • मङ्गलकलशकथानकम् आस्तिक्यकायसच्छायो, वैराग्यातुच्छपुच्छभृत् । पञ्चभिभूषणैः पञ्चमुखः कर्मेभमर्मभित् ॥१०॥ उद्यद्गुणद्रुमच्छाये, कृपाकुलंकषाकुले । सम्यक्त्वकेशरी यस्यावसन्मानसकानने ।।११।। युग्मम् ।। बभूव गेहिनी तस्य, गेहश्रीरेव देहिनी । अभिरामगुणग्रामा, सत्यभामाऽभिधानतः ॥१२॥ प्रसर्पदर्पकन्दर्पसर्पहालाहलोपहम् । शीलरत्नं सयत्नं सा, दक्षा रक्षति सर्वथा ॥१३।। त्रिवर्गमाराधयतोस्तयोरथ यथातथम् । प्राच्य पुण्यपरीपाकात्, शतानि शरदां ययुः ॥१४॥ चरमे यामिनीयामेऽन्यदा दध्यौ धनो हृदि । गतनिद्रोऽपितन्द्रात्मा' स्व-स्वरूपमनुस्मरन् ।।१५।। प्रवाल-रजत-स्वर्ण-मणि-मौक्तिकसञ्चयाः । प्राङ्गणे मम सन्त्येते, कणवद् गणनातिगाः ॥१६।। स्वविमानसमानानि, सन्ति समान्यनेकशः । वराशिराशय इव, क्षोमाणि च सहस्रशः ।।१७।। पादातं माहिषं चैवाश्वीयमौक्षकमौष्ट्यकम् । शिबिका-शकटादीनि, सन्ति वस्तूनि लक्षशः ॥१८|| दत्तदुःखावसादश्च, प्रसादः पृथिवीपतेः । मय्यस्ति बन्धुलोकोयं, पौरवर्गश्च वत्सलः ॥१९।। किन्तु पुत्रमुखादर्शसुखास्वादं विना मम । ताम्बूलहीनं नेपथ्यमिव सर्वं निरर्थकम् ॥२०॥ १. निद्रो वितन्द्रात्मा - पा.१ ।
OICO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org