________________
५. श्रीमुनिदेवसूरिविरचितम् मङ्गलकलशकथानकम् ॥
पूर्वं युगादिदेवस्य, जज्ञिरे शतमङ्गजाः । अवन्तिवर्धनो नाम, तेष्वेको भरतादिषु ॥ १ ॥ अवन्तिरिति विख्यातो, देशस्तस्याभिधानतः । आस्ते समस्तलक्ष्मीणां, सङ्केतसदनोपमः ||२|| तस्मिन्नुज्जयनी नाम, पुरी सुरपरीसमा । भूपसेवासमायातसामन्तजनसङ्कुला ||३|| लङ्काऽलकाद्यानगरीर्निर्जित्यातिप्रमोदतः । चञ्चलैर्नरिर्तीव या निकेतनकैतनैः ||४|| युग्मम् ॥ तत्र दुःखाब्धिनिर्मज्जद्गोत्रोद्धरणपोत्रभृत् । वैरिकुञ्जरसिंहोस्ति, वैरिसिंहो महीपतिः ||५|| तत्प्रतापो भुवि स्फूर्जन्नूर्जस्विधरणीभृतः । उवोष नतु सोष्मापि, चित्रं सन्मित्रकाननम् ||६|| तस्यास्ति महिषी सोमचन्द्रा चन्द्राभसद्गुणा । वर्धने रागकल्लोलप्रेमकल्लोलमालिनः ||७|| सोमत्वाह्लादकत्वाभ्यां, द्विधापि विजितो विधुः । नामयुग्ममितीवास्य, जगृहे सा गृहेश्वरी ॥८॥
राजप्रसादविश्रामभूमिर्भूमगुणाश्रयः ।
तत्र न्यायार्जितधनो, धनदत्तोस्ति वाणिजः ॥ ९ ॥
estaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org