________________
१३० • मङ्गलकलशकथानकम् सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयैवाह्लादिता ततः ॥२३०।। स सोमचन्द्रः श्रीदेव्या तया सार्द्धं च भार्यया । साधुसंसर्गतः प्राप्तं श्राद्धधर्ममापलयत् ।।२३१।। अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥२३२।। सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूत् भूपतिर्भवान् । जीवश्च्युत्वा च श्रीदेव्या जज्ञे त्रैलोक्यसुन्दरी ॥२३३।। परद्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥२३४।। हास्येनापि वयस्यायै यद्दत्तमनया पुरा । तदेतस्यामिह भवे कलङ्कः समभूद् ध्रुवम् ॥२३५।। तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा राज्ञी च प्रव्रज्यां पार्वे जगृहतुर्गुरोः ।।२३६।। क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ।।२३७॥ त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्तिनी । विपद्योभौ च तावन्ते ब्रह्मलोकमुपेयतुः ।।२३८।। ततश्च्युतौ मनुष्यत्वं प्राप्यानिमिषतां पुनः । एवं भवे तृतीये तौ प्रापतुः पदमव्ययम् ।।२३९।।
इति मङ्गलकलशकथानकम् ॥
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org