________________
श्री अजितप्रभसूरिविरचितम् • १२९
सोमचन्द्रः प्रकृत्यासावार्जवादिगुणान्वितः । मान्यः समस्तलोकानां तस्य भार्या च तादृशी ॥२१९॥ इतस्तत्रैव नगरे जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन तस्य मैत्री निरन्तरा ॥ २२०॥ जिनदेवो धनाकाङ्क्षी धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो निजं मित्रमभाषत ॥ २२१ || धनायाहं गमिष्यामि मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्र्यां वाप्यं यथाविधि ॥२२२॥ तवापि तस्य पुण्यस्य षष्ठांशो भवतादिति । दीनाराणां सहस्राणि दशैतस्यार्पयत्करे ॥२२३॥ गते देशान्तरे तस्मिन् सोमचन्द्रोऽथ तत्सुहृत् । व्ययति स्म यथास्थानं तद्द्रव्यं शुद्धचेतसा ॥ २२४॥ आत्मीयमपि तस्यानुसारेणायं व्याधाद् वृषम् । तज्ज्ञात्वा तस्य भार्याऽपि धर्म भेजेऽनुमोदनात् ॥२२५॥ तस्मिन्नेव पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥२२६॥ देवदत्तः स कालेन कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततो भद्रा तत्प्रिया विषसाद सा ||२२७।। पुरः सख्यास्तयाऽन्येद्युस्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ २२८॥ हले ! त्वत्सङ्गदोषेण कुष्ठी जज्ञे पतिस्तव । ममापि दृष्टिं मा गास्त्वमतोऽपसर दूरतः ॥ २२९॥
05429
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org