SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १२८ • मङ्गलकलशकथानकम् अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्मातापितरावपि ॥२०८।। अन्येधुर्मन्त्रिसामन्तसम्मत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये सुधीः स्थापयति स्म सः ॥२०९।। यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ।।२१०।। राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । प्रत्यन्तपाथिवा राज्यं हर्तुं तस्योपतस्थिरे ।।२११।। सेनया चतुरङ्गिण्या सहितेन महौजसा । दृढपुण्यप्रभावेण जिताः सर्वेऽपि तेन ते ॥२१२।। शान्ताऽमित्रस्य तस्याथ राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दर्यां सुतोऽभूज्जयशेखरः ।।२१३।। स च राजा निजे देशे जिनचैत्यान्यनेकशः । जिना रथयात्राश्चेत्यादिधर्ममकारयत् ।।२१४।। अन्यदोद्यानमायातं जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भावेन सकलत्रः स भूपतिः ॥२१५।। पप्रच्छ च यथा केन कर्मणा भगवन्मया । प्राप्ता विडम्बनोद्वाहे देव्या प्राप्तं च दूषणम् ? ॥२१६।। सूरिरूचेऽथ भरते क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्ठितं नाम धनधान्यसमृद्धिमत् ।।२१७।। आसीत् तत्र सोमचन्द्राभिधानः कुलपुत्रकः । श्रीदेवी तद्भार्याऽभूत् तौ मिथः प्रीतिशालिनौ ॥२१८।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy