________________
श्रीअजितप्रभसूरिविरचितम् • १२७ पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास च स्थालादीनि तद्भणितोऽस्य सः ॥१९७।। वध्वाः स्वरूपकथनेनालाद्य श्रेष्ठिनं ततः । सिंहः पुना राजपुत्र्याः समीपं समुपाययौ ।।१९८।। सिंहेनानुमता साऽथ कृत्वा स्त्रीवेषमुद्भटम् । बभूव वल्लभा तस्य मङ्गलस्य महात्मनः ॥१९९।। ययौ च श्रेष्ठिनो वेश्म तत् युग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं पृष्ट्वा श्रुत्वा विसिष्मिये ॥२००।। ततस्तत्रैव प्रासादे गत्वा राजाज्ञया पुनः । समं त्रैलोक्यसुन्दर्या विललास स मङ्गलः ॥२०१।। सुन्दर्या प्रेषितः सोऽथ सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ।।२०२।। अमुना सर्ववृत्तान्ते कथिते जगतीपतिः । हृष्टोऽभाषिष्ट वत्साया अहो ! मे मतिकौशलम् ।।२०३।। अहो ! कुधीरमात्यस्य पापकर्मविधायिनः । येनादोषाऽपि मत्पुत्री सदोषा विहिता कथम् ? ॥२०४।। सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय सच्चक्रे च यथाविधि ।।२०५।। अमात्यं धारयित्वा तं मार्यमाणं महीभुजा । मङ्गलो मोचयामास गाढाभ्यर्थनया नृपात् ।।२०६॥ जामातुरुपरोधेन मया मुक्तोऽसि पाप ! रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ।।२०७।।
oxa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org