SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १२६ • मङ्गलकलशकथानकम् चरितं कल्पितं किं वा कथयामि कथानकम् ? । साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ! ॥१८६।। मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी । चम्पापुर्यां भाटकेन परिणीता हि या मया ।।१८७।। केनापि हेतुनेहागात् भूत्वा पुंवेषधारिणी । भवत्वेवं कथां तावत् कथयामि निजामहम् ।।१८८।। जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ।।१८९।। ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद् यावदमात्येन गृहान्निर्वासितोऽस्म्यहम् ।।१९०।। अत्रान्तरे कृतालीककोपा राजसुताऽवदत् । अमुं गृह्णीत गृह्णीत रे ! रे ! मिथ्याभिभाषिणम् ॥१९१।। इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो गृहान्तरे ॥१९२।। अथैनमासनेऽध्यास्य सिंहमूचे नृपात्मजा । अयि ! येनाहमूढाऽस्मि स एवायं प्रियो मम ।।१९३।। किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत् । अयं तव भवेद् भर्ता तदा सेव्योऽपशङ्कितम् ।।१९४।। सोचे सिंहं तवाद्यापि चित्ते यद्यस्ति संशयः । ततोऽस्य मन्दिरे गत्वा स्थालादीनि विलोकय ॥१९५।। तद् विधातुमथो सिंहो धनदत्तगृहं ययौ । सोऽग्रे छात्रमुखात् पुत्रापायं श्रुत्वाऽऽकुलोऽभवत् ।।१९६।। Asya Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy