________________
श्रीअजितप्रभसूरिविरचितम् • १२५ राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादुनीरस्थानं निरीक्ष्यताम् ।।१७५।। पूर्वस्यां दिशि ते तत् तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेऽवात्सीत् साऽथनृपाज्ञया ॥१७६।। गच्छतो नीरपानार्थमन्यदाऽश्वान्निरीक्ष्य तान् । सा दध्यौ मम तातस्य सत्का एते तुरङ्गमाः ॥१७७।। तेषामनुपदं प्रेष्य पुनर्भृत्यान् विवेद सा । भर्तुगुहाभिधानादिसर्वशुद्धि मनस्विनी ।।१७८।। कलाभ्यासपरं तं च ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहमेते हि कथं ग्राह्यास्तुरङ्गमाः ? ॥१७९।। सिंहोऽवादीत् त्वयाऽऽदिष्टोपायेनैव ततश्च सा । सच्छात्रं तं कलाचार्यं भोजनाय न्यमन्त्रयत् ।।१८०।। भोजनार्थमुपाध्याये तत्रायाते ददर्श सा । छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ।।१८१।। तस्मा आसनमात्मीयं स्थालं चादापयत् तदा । अकारयद् विशेषेण गौरवं भोजनादिषु ।।१८२।। ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ।।१८३।। उवाच च कलाचार्यमेतन्मध्यात् त्वदाज्ञया । यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥१८४।। सर्वैरपीjया छात्रैर्निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥१८५।।
wag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org