________________
१२४ • मङ्गलकलशकथानकम् भूयो राजाऽब्रवीत् सिंहं किमिदं वक्त्यसौ वचः ? | सोऽवदद् देव ! युक्तं हि क्रमोऽस्ति यदयं किल ॥१६४|| राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तस्यै दातव्यः स न संशयः ॥१६५।। ततस्तदनुमत्याऽस्यै पुंवेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थं बलान्वितम् ।।१६६।। अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद् भवेत् तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥१६७।। कारणं कथयिष्यामि तज्जाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥१६८।। हे पुत्रि ! मम वंशस्य यथा नाभ्येति दूषणम् : तथा कार्यं त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥१६९।। ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनी पुरीम् ॥१७०।। वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः ॥१७१।। अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥१७२।। पृष्टा चागमनार्थं सा प्रोवाच नगरीमिमाम् । दृष्टुमाश्चर्यसम्पूर्णामागतोऽस्मि कुतूहलात् ।।१७३।। ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ।।१७४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org