________________
श्रीअजितप्रभसूरिविरचितम् • १२३ तदा च मोदकास्तेन भुक्त्वा सञ्जल्पितं किल । एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥१५३।। ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी ॥१५४।। अथान्येधुरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥१५५।। तां दृष्ट्वानादरपरामन्येयुः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥१५६।। सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ।।१५७।। नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता । वराकी वर्त्तते कष्टे सैषा त्रैलोक्यसुन्दरी ॥१५८।। अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणामात्रेण प्रसादोऽद्य विधीयताम् ।।१५९।। पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह ! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥१६०॥ तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ! ॥१६१।। वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥१६२॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेषं कुमारोचितमर्पय ॥१६३।।
Oce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org