________________
१२२ • मङ्गलकलशकथानकम् तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी । अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥१४२।। स्वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥१४३।। तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥१४४|| युग्मम् ॥ स्वकर्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्पुत्री मे दोषभाजनम् ॥१४५।। उचे च सचिवाऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ।।१४६।। अमात्योऽप्यब्रवीत् स्वामिन् ! हितकार्यं प्रकुर्वताम् । को दोषो भवतामत्र ? दोषो मत्कर्मणां पुनः ॥१४७।। अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा सञ्जाता राज्ञः परिजनस्य च ॥१४८।। न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ॥१४९।। अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा ? । येन क्वापि ययौ नंष्ट्वा परिणीतः स मे पतिः ॥१५०।। अन्यच्च लोकमध्येऽद: कलङ्कं समुपस्थितम् । किं करोमि ? क्व गच्छामि ? व्यसने पतिताऽस्मि हा ! ॥१५१।। एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा । भवितोज्जयिनीपुर्यां प्राप्तो नूनं स मे पतिः ॥१५२।।
Dislee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org