________________
श्रीअजितप्रभसूरिविरचितम् • १२१ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भ्रमा ? | साऽवदद् देवतारूपी गतः क्वापि स मे पतिः ॥१३१।। प्रत्यूचुस्ता इदानीं स प्रविष्टोऽत्र पतिस्तव ।। साऽब्रवीन्नास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥१३२।। दासीमध्ये तत: सुप्ता तामतीत्य विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजम् ।।१३३।। सुबुद्धिः रपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येधुश्चिन्ताश्याममुखः किल ॥१३४।। कृतप्रणतिमासीनमथैनं पृथिवीपतिः । हर्षस्थाने विषादः किं ? तवेत्यूचे कृताग्रहः ॥१३५।। स जगाद महाराज ! विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ? ॥१३६।। चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ।।१३७।। राजा प्रोवाच हे मन्त्रिन् ! उक्त्वा स्वं दु:खकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥१३८।। निःश्वस्य सचिवोऽप्यूचे देव ! दैवं करोति तत् । यद् वक्तुमपि नो शक्यमश्रद्धेयं च शृण्वताम् ।।१३९।। स्वामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यद् वृत्तं तन्निशम्यताम् ।।१४०।। यादृग् राज्ञा स्वयं दृष्टस्तादृगेव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ? ॥१४१।।
lokaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org