________________
१२० • मङ्गलकलशकथानकम् श्रेष्ठ्यप्यस्य निषेधार्थं गृहद्यावन्निरीयिवान् । तावद् रथात्समुत्तीर्य पितुः पादौ ननाम सः ॥१२०॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्धर्षाऽश्रुपूरप्लावितेक्षणम् ।।१२१।। पप्रच्छ चोपविष्टः सन् वत्सद्धिः कुत ईदृशी ? । क्व वा कालमियन्तं त्वं स्थितोऽसि ? वद नन्दन ! ॥१२२।। ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि स्वस्थानागमनावधि ॥१२३।। अहो ! पुत्रस्य सौभाग्यमहो ! पुत्रस्य दक्षता । अहो ! धैर्यमहो ! भाग्यमिति प्राशंसतामिमौ ।।१२४।। ततः प्राकारसंगुप्तं स स्वगेहमकारयत् । अश्वानां रक्षणार्थं च मन्दुरादिनियन्त्रणम् ।।१२५।। सोऽन्येधुर्जनकं स्माह मम तात ! कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्णं करिष्यामि त्वदाज्ञया ॥१२६।। ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ स्वकीयसदनान्तिके ॥१२७।। इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेषभृत् । प्रेषितो वासभवने वधूपान्ते सुतो निजः ।।१२८।। शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ? ॥१२९।। करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय निर्ययौ भवनाद् बहिः ।।१३०।।
CAIXA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org