________________
श्रीअजितप्रभसूरिविरचितम् • ११९ सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥१०९।। गमिष्यामि पुनर्देहचिन्तायामुदरातिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥११०।। निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषाश्च तान् । पप्रच्छ राजदत्तं भोः ! क्वास्ति तद्वस्तु मामकम् ? ॥१११।। तैश्च तद् दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु निक्षिप्यैकरथे वरे ।।११२।। तस्मिंश्च योजयित्वाऽश्वांश्चतुरः पृष्ठतस्तथा । बद्ध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् ।।११३।। युग्मम् ।। पृष्टाश्चानेन ते ग्रामानुज्जयिन्यध्वगान्नराः । प्रत्येकं कथयन्ति स्म नामग्राहं मुहुर्मुहुः ।।११४।। ततो रथाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्रप्तस्तामेव नगरी निजाम् ॥११५।। इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घस्त्रैर्गतशोकौ बभूवतुः ॥११६।। गृहाभिमुखमायान्तं रथारूढं विलोक्य तम् । बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रम् ॥११७|| प्रेर्यते गृहमध्येन राजपुत्र ! कथं रथ: ? । कर्त्तास्यभिनवं मार्गं किं त्वं त्यक्त्वा पुरातनम् ? |११८।। इत्थं निषिध्यमानोऽपि न यावद् विरराम सः । आचख्यौ श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥११९।।
Aswa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org