________________
११८ • मङ्गलकलशकथानकम्
वाद्यमाने ततस्तूर्येऽभवद् धवलमङ्गलः । मन्त्रिणा स्वगृहे निन्ये समं वध्वा स मङ्गलः ॥९८॥
तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ? ॥९९॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥१००॥ ततः क्षणान्तरेणासौ देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाऽऽशु तदनु प्राचलच्च सा ||१०१ || कृतायामपि तस्यां तं शून्यचित्तं रहः स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां क्षुधा नु किम् ? ॥१०२॥ ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वगृहात् तस्मै ददौ त्रैलोक्यसुन्दरी || १०३|| भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो ! रम्यतरा एते मोदकाः सिंहकेसराः ॥ १०४॥ उज्जयिन्या नगर्याश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं मोदकेष्वशितेष्वपि ॥ १०५ ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो ! अघटमानं किं वाक्यमेष प्रजल्पति ? ॥१०६ ॥
मातृगेहमथावन्त्यामार्यपुत्रस्य भावि वा ।
तदसौ दृष्टपूर्वत्वाज्जानात्यस्याः स्वरूपताम् ||१०७।। ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्यसौ ॥१०८॥
Libyaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org