________________
श्रीअजितप्रभसूरिविरचितम् • ११७ दत्तकुङ्कमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥८७।। द्राघीयोभिर्वरस्त्रीणां उलूलुध्वनिभिर्भृशम् । पञ्चस्वनैश्च विदधद् दिवं नादमयीमिव ।।८८।। कृतशक्रधनुर्दण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपद्वारसन्निधिम् ॥८९।। उत्तीर्य कुज्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्घ्यमेष प्रतीयेष प्रद्योतन इव प्रगे ।।९०।। समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पार्वे वस्त्राभरणभूषितः ॥९१।। त्रैलोक्यसुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या कृतार्थं स्वं मनस्विनी ॥९२।। ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्नि भ्रमतुर्मङ्गलानि तौ ।।९३।। प्रथमे मङ्गले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थालाभरणसञ्चयम् ॥९४।। तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्थं जज्ञे पाणिग्रहोत्सवः ।।९५।। कृतोद्वाहे वरे चास्मिन् वधूहस्तममुञ्चति । उवाच नृपतिर्भूयो वत्स ! यच्छामि किं नु ते ? ॥९६।। ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत् तस्मै शीघ्रमेवाऽसौ प्रददौ प्रीतमानसः ॥९७।।
CASyaQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org