________________
११६ • मङ्गलकलशकथानकम् मन्त्र्यूचे चेन्न कर्मेदं करिष्यसि सुदुर्मते ! । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥७६।। इति निस्त्रिंशमाकृष्य भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥७७।। प्रधानपुरुषैर्मन्त्री निषिद्धस्तस्य मारणात् । अभाणि सोऽपि गन्यस्व भद्र ! त्वं मन्त्रिणो वचः ॥७८।। ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी क्वाऽसौ ? ममेहागमनं क्व च ? ॥७९।। इदमाकाशवाचाऽपि दैवत्या कथितं तदा । तत्करोम्यहमप्येवं यद् भाव्यं तद् भवत्यहो ! |८०|| विचिन्त्येदं पुनः स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्यं मयका कर्म निघृणम् ॥८१।। तदाऽहमपि वः पार्श्वे नाथ ! नाथामि सर्वथा । मह्यं ददाति यद् राजा वस्तुजातं ममैव तत् ।।८२॥ स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तद्वाक्यं मेने मन्त्र्यपि बुद्धिमान् ॥८३।। इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्वं च सज्जयामास क्रमाद् वैवाहिकं विधिम् ।।८४।। अथ व्योम्नः प्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेशकारकैर्भूपः स्वानुरूपमकारयत् ।।८५।। कुमारकः कृतस्नानः कृचतन्दनलेपनः । सदशश्वेतवसनो हस्तविन्यस्तकङ्कणः ॥८६।।
sxag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org