________________
श्रीअजितप्रभसूरिविरचितम् • ११५ गोपयित्वाऽतियत्नेन प्रभातसमयेऽमुना । अपितोऽमात्यवर्यस्य गृहे नीत्वा सगौरवम् ॥६५।। भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥६६॥ ततोऽसौ चिन्तयामास किमयं मम सत्क्रियाम् । कुरुते ? निर्गमं चैव यत्नाद् रक्षति मन्दिरात् ? ॥६७।। पप्रच्छ चान्यदाऽमात्यं तात ! वैदेशिकस्य मे । किमिदं माननं हन्त ! भवद्भिः क्रियतेऽधिकम् ? ॥६८।। का नामैषा पुरी ? को वा देश: ? को वाऽत्र भूपतिः ? । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्त्तते ॥६९।। अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशश्च राजात्र सुरसुन्दरः ॥७०॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स ! त्वं कारणेन गरीयसा ॥७१।। त्रैलोक्यसुन्दरी नाम राज्ञा पुत्री विवाहितुम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडितः ।।७२।। परिणीय त्वया भद्र ! विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ।।७३।। तच्छ्रुत्वा मङ्गलोऽवोचदकृत्यं किं करोष्यद: ? । क्व सा रूपवती बाला ? निन्द्यरोगी क्व ते सुतः ? ||७४|| कर्मेदं न करिष्यामि कथञ्चिदतिनिष्ठुरम् । कूपे क्षिप्त्वा जनं मुग्धं वरत्राकर्तनोपमम् ॥७५।।
Ayaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org